मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १४

संहिता

र॒साय्य॒ः पय॑सा॒ पिन्व॑मान ई॒रय॑न्नेषि॒ मधु॑मन्तमं॒शुम् ।
पव॑मानः संत॒निमे॑षि कृ॒ण्वन्निन्द्रा॑य सोम परिषि॒च्यमा॑नः ॥

पदपाठः

र॒साय्यः॑ । पय॑सा । पिन्व॑मानः । ई॒रय॑न् । ए॒षि॒ । मधु॑ऽमन्तम् । अं॒शुम् ।
पव॑मानः । स॒म्ऽत॒निम् । ए॒षि॒ । कृ॒ण्वन् । इन्द्रा॑य । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः ॥

सायणभाष्यम्

हे सोम रसाय्यः रसेरौणादिकआय्यप्रत्ययः । आस्वाद्यः पयसायुक्तः पिन्वमानः क्षरन् त्वं ईरयन् शब्दंप्रेरयन् मधुमन्तं माधुर्योपेतं अंशुं रसभावं एषि प्राप्नोषि । अंशुःशमष्टमा- त्रोभवतीतियास्कः । अनेन सोमरसोभिधीयते । किंच हेसोम परिषिच्यमानः अद्भिः परि षिक्तस्त्वं पवमानः पवित्रेपूयमानःसन् संतनिं तनुविस्तारे इप्रत्ययः संततांधारां कृण्वन् कुर्वन्निन्द्राय इंद्रार्थं एषि गच्छसि ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३