मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १५

संहिता

ए॒वा प॑वस्व मदि॒रो मदा॑योदग्रा॒भस्य॑ न॒मय॑न्वध॒स्नैः ।
परि॒ वर्णं॒ भर॑माणो॒ रुश॑न्तं ग॒व्युर्नो॑ अर्ष॒ परि॑ सोम सि॒क्तः ॥

पदपाठः

ए॒व । प॒व॒स्व॒ । म॒दि॒रः । मदा॑य । उ॒द॒ऽग्रा॒भस्य॑ । न॒मय॑न् । व॒ध॒ऽस्नैः ।
परि॑ । वर्ण॑म् । भर॑माणः । रुश॑न्तम् । ग॒व्युः । नः॒ । अ॒र्ष॒ । परि॑ । सो॒म॒ । सि॒क्तः ॥

सायणभाष्यम्

हे सोम मदिरोमदकरस्त्वं उदग्राभस्य क्रियाग्रहणंकर्तव्यमिति कर्मणः संप्रदानसंज्ञा चतु र्थ्यर्थेबहुलमितिषष्ठी । उदग्राभं उदकग्राहिणंमेघं वधस्नैः हननसाधनैरायुधैः नमयन् वृष्ट्य- र्थंप्रह्वीकुर्वन् मदाय मदार्थमेव पवस्व एवं पात्रेषुक्षर । किंच रुशंतं आरोचमानं श्वेतं वर्णं परिभरमाणः परितोबिभ्रत् सिक्तः पवित्रेसिच्यमानस्त्वं गव्युः नोस्माकं गाइच्छन् पर्यर्ष परिगच्छ ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३