मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् १९

संहिता

जुष्टो॒ मदा॑य दे॒वता॑त इन्दो॒ परि॒ ष्णुना॑ धन्व॒ सानो॒ अव्ये॑ ।
स॒हस्र॑धारः सुर॒भिरद॑ब्ध॒ः परि॑ स्रव॒ वाज॑सातौ नृ॒षह्ये॑ ॥

पदपाठः

जुष्टः॑ । मदा॑य । दे॒वऽता॑ते । इ॒न्दो॒ इति॑ । परि॑ । स्नुना॑ । ध॒न्व॒ । सानौ॑ । अव्ये॑ ।
स॒हस्र॑ऽधारः । सु॒ऽर॒भिः । अद॑ब्धः । परि॑ । स्र॒व॒ । वाज॑ऽसातौ । नृ॒ऽसह्ये॑ ॥

सायणभाष्यम्

हेइन्दो मदाय जुष्टः पर्याप्तस्त्वं देवताते देवैस्ततेयज्ञे सानौ समुच्छ्रिते अव्ये अविभ- वे स्रुनाश्रयणशीलेन धारासंघेन सह परिधन्व परिगच्छ सहस्रधारः बहुधारोपेतः सुरभिः सुगन्धिभिः त्वं अदब्धः नकैश्चित् हिंसितः सन् वाजसातौ अन्नलाभाय निमित्ते नृसह्ये नृभिः सोढव्येयुद्धे परिस्रव परितोगच्छ ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४