मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २१

संहिता

ए॒वा न॑ इन्दो अ॒भि दे॒ववी॑तिं॒ परि॑ स्रव॒ नभो॒ अर्ण॑श्च॒मूषु॑ ।
सोमो॑ अ॒स्मभ्यं॒ काम्यं॑ बृ॒हन्तं॑ र॒यिं द॑दातु वी॒रव॑न्तमु॒ग्रम् ॥

पदपाठः

ए॒व । नः॒ । इ॒न्दो॒ इति॑ । अ॒भि । दे॒वऽवी॑तिम् । परि॑ । स्र॒व॒ । नभः॑ । अर्णः॑ । च॒मूषु॑ ।
सोमः॑ । अ॒स्मभ्य॑म् । काम्य॑म् । बृ॒हन्त॑म् । र॒यिम् । द॒दा॒तु॒ । वी॒रऽव॑न्तम् । उ॒ग्रम् ॥

सायणभाष्यम्

हे इन्दो सोम नोस्मदीयमेव देववीतिं देवानांवीतिर्भक्षणं गमनंवा यस्मिन् देववीति- र्यज्ञः तमभिलक्ष्य नभोनभसोद्युलोकात् अर्णउदकं अनेनपव् इत्रान्निर्गतः सोमरसोभिधीयते तं रसं चमूषु चमसेषु परिस्रव परितःक्षर । ततः सोमः काम्यं काम्यमानं बृहन्तं प्रवृद्धं वीरवन्तं पुत्रयुक्तं उग्रमुद्गूर्णबलं रयिं धनं अस्मभ्यं ददातु प्रयच्छतु ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५