मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २२

संहिता

तक्ष॒द्यदी॒ मन॑सो॒ वेन॑तो॒ वाग्ज्येष्ठ॑स्य वा॒ धर्म॑णि॒ क्षोरनी॑के ।
आदी॑माय॒न्वर॒मा वा॑वशा॒ना जुष्टं॒ पतिं॑ क॒लशे॒ गाव॒ इन्दु॑म् ॥

पदपाठः

तक्ष॑त् । यदि॑ । मन॑सः । वेन॑तः । वाक् । ज्येष्ठ॑स्य । वा॒ । धर्म॑णि । क्षोः । अनी॑के ।
आत् । ई॒म् । आ॒य॒न् । वर॑म् । आ । वा॒व॒शा॒नाः । जुष्ट॑म् । पति॑म् । क॒लशे॑ । गावः॑ । इन्दु॑म् ॥

सायणभाष्यम्

वेनतः वेनोवेनतेःकान्तिकर्मणइतियास्कः । कामयमानस्य मनसः मन्यतेःस्तुतिकर्मणः स्तोतुर्वाक् स्तुतिलक्षणायद्येनंतक्षत् संस्करेति वाशब्दउपमार्थे यथा धर्मणि निमित्तात् कर्मसंयोगइतिसप्तमी धारकं योगक्षेमविषयं कर्मोद्दिश्य क्षोःशब्दायमानस्य अनीके संग्राम- मुखे तत्र स्थितस्य जानपदिकस्य वाक् ज्येष्ठस्य द्वितीयार्थेषष्ठी प्रशस्यतमं राजानं यथा- स्तौति तथास्तोतुर्वाक् सोमंस्तौतीत्यर्थः । आदनंतरमेव वरं वरणीयं जुष्टं देवानां मदाय- पर्याप्ते पतिं सर्वस्य पालकं कलशे स्थितं इन्दुं ईमेनं सोमं वावशानाः कामयमानाः गावआयन् पयसा स्वीये नमि श्रयितुमागच्छंति ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५