मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २३

संहिता

प्र दा॑नु॒दो दि॒व्यो दा॑नुपि॒न्व ऋ॒तमृ॒ताय॑ पवते सुमे॒धाः ।
ध॒र्मा भु॑वद्वृज॒न्य॑स्य॒ राजा॒ प्र र॒श्मिभि॑र्द॒शभि॑र्भारि॒ भूम॑ ॥

पदपाठः

प्र । दा॒नु॒ऽदः । दि॒व्यः । दा॒नु॒ऽपि॒न्वः । ऋ॒तम् । ऋ॒ताय॑ । प॒व॒ते॒ । सु॒ऽमे॒धाः ।
ध॒र्मा । भु॒व॒त् । वृ॒ज॒न्य॑स्य । राजा॑ । प्र । र॒श्मिऽभिः॑ । द॒शऽभिः॑ । भा॒रि॒ । भूम॑ ॥

सायणभाष्यम्

दिव्योदिविभवः दानुदः दातृभ्योधनादीनांदाता तदेवाह दानुपिन्वः पिविसेचने कर्मण्यणित्यण् दातृभ्यः कामानां रक्षयिता सुमेधाः शोभनप्रज्ञः सोमः ऋताय सत्यभूता- येन्द्राय तं सत्यभूतमात्मीयं रसंपवते प्रकर्षेण क्षरति । राजा दीप्यमानः सोमः वृजन्यस्य साधुबलस्य धर्मा धारयिता भुवद्भवति । किंच दशभिः एतत्संज्ञकाभीरश्मिभिः कर्म- करणार्थमश्नुवानाभिः अंगुलिभिः भूम प्रभूतं प्रभारि प्रभार्यते चिणिरूपं ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५