मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २४

संहिता

प॒वित्रे॑भि॒ः पव॑मानो नृ॒चक्षा॒ राजा॑ दे॒वाना॑मु॒त मर्त्या॑नाम् ।
द्वि॒ता भु॑वद्रयि॒पती॑ रयी॒णामृ॒तं भ॑र॒त्सुभृ॑तं॒ चार्विन्दु॑ः ॥

पदपाठः

प॒वित्रे॑भिः । पव॑मानः । नृ॒ऽचक्षाः॑ । राजा॑ । दे॒वाना॑म् । उ॒त । मर्त्या॑नाम् ।
द्वि॒ता । भु॒व॒त् । र॒यि॒ऽपतिः॑ । र॒यी॒णाम् । ऋ॒तम् । भ॒र॒त् । सुऽभृ॑तम् । चारु॑ । इन्दुः॑ ॥

सायणभाष्यम्

पवित्रेभिः पवित्रैः पवमानः पूयमानः नृचक्षाः नृणांफलाफलयोः द्रष्टा अथ देवाना- मिन्द्रादीनां उतापिच मर्त्यानां मनुष्याणां एवमुभयेषां जनानां राजा रयिपतिः धनस्य- पतिः नत्वल्पस्यपतिः किंतु रयीणां बहूनां धनानांस्वामी । वृत्यवृत्तिभ्यांस्वामित्वं बाहु- ल्यंच विवक्ष्यते । ईदृशः सोमः द्विता द्विधा देवेष्वपिच मनुष्येषु भुवत् भवति । सोय- मिन्दुः सोमः सुभृतं संभृतं चारु कल्याणं ऋतमुदकं भरत् बिभर्ति ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५