मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २६

संहिता

दे॒वा॒व्यो॑ नः परिषि॒च्यमा॑ना॒ः क्षयं॑ सु॒वीरं॑ धन्वन्तु॒ सोमा॑ः ।
आ॒य॒ज्यवः॑ सुम॒तिं वि॒श्ववा॑रा॒ होता॑रो॒ न दि॑वि॒यजो॑ म॒न्द्रत॑माः ॥

पदपाठः

दे॒व॒ऽअ॒व्यः॑॑ । नः॒ । प॒रि॒ऽसि॒च्यमा॑नाः । क्षय॑म् । सु॒ऽवीर॑म् । ध॒न्व॒न्तु॒ । सोमाः॑ ।
आ॒ऽय॒ज्यवः॑ । सु॒ऽम॒तिम् । वि॒श्वऽवा॑राः । होता॑रः । न । दि॒वि॒ऽयजः॑ । म॒न्द्रऽत॑माः ॥

सायणभाष्यम्

देवाव्यः अवतेस्तर्पणार्थस्य अवितृस्तॄतन्त्रिभ्यईरिति ईप्रत्ययः । उदात्तस्वरितयो र्यण- इति जसःस्वरितत्वम् । देवानां तर्पयितारः परिषिच्यमानाः परितः पात्रेषु सिच्यमानाः सोमाः नोस्माकं सुवीरंशोभनपुत्रं क्षयं गृहं धन्वन्तु प्रेरयन्तु । कीदृशाः सुमतिं शोभन- मतिं यजमानं आयज्यवः यष्टुमिच्छवः विश्ववाराः विश्वैर्वरणीयाः होतारोन होतारोयथा देवानिन्द्रादीन् स्तुवन्ति एवं दिवियजः दिवि द्युलोकस्थितानिन्द्रादीन् देवान् यजन्तः । दिव् शब्दे तत्पुरुषेकृतिबहुलमिति सप्तम्याअलुक् । मन्द्रतमाः अत्यन्तंमदकराः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६