मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् २९

संहिता

श॒तं धारा॑ दे॒वजा॑ता असृग्रन्त्स॒हस्र॑मेनाः क॒वयो॑ मृजन्ति ।
इन्दो॑ स॒नित्रं॑ दि॒व आ प॑वस्व पुरए॒तासि॑ मह॒तो धन॑स्य ॥

पदपाठः

श॒तम् । धाराः॑ । दे॒वऽजा॑ताः । अ॒सृ॒ग्र॒न् । स॒हस्र॑म् । ए॒नाः॒ । क॒वयः॑ । मृ॒ज॒न्ति॒ ।
इन्दो॒ इति॑ । स॒नित्र॑म् । दि॒वः । आ । प॒व॒स्व॒ । पु॒रः॒ऽए॒ता । अ॒सि॒ । म॒ह॒तः । धन॑स्य ॥

सायणभाष्यम्

हे सोम देवजाताः देवार्थं प्रादुर्भूताः शतं शतसंख्याकाः त्वदीयाधाराः असृग्रन् सृज्य- न्ते । ततः कवयः क्रान्तदर्शिनः ऋत्विजः सहस्रं बहुविधाः एनाः त्वदीयाधाराः मृजन्ति अलंकुर्वन्ति यद्वा सहस्रमनेकधाम्ऋजन्ति शोधयन्ति । हेइन्दो सनित्रं भजनसाधनं दिवो द्युलोत् अस्माकं पुत्रादीनांच आपवस्व आप्रापय । कुतोस्यधनमितिचेत् तत्राह महतः प्र- भूतधनस्य पुरएता पुरतोगंतासि भवसि तस्माद्देहि इति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६