मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३०

संहिता

दि॒वो न सर्गा॑ अससृग्र॒मह्नां॒ राजा॒ न मि॒त्रं प्र मि॑नाति॒ धीरः॑ ।
पि॒तुर्न पु॒त्रः क्रतु॑भिर्यता॒न आ प॑वस्व वि॒शे अ॒स्या अजी॑तिम् ॥

पदपाठः

दि॒वः । न । सर्गाः॑ । अ॒स॒सृ॒ग्र॒म् । अह्ना॑म् । राजा॑ । न । मि॒त्रम् । प्र । मि॒ना॒ति॒ । धीरः॑ ।
पि॒तुः । न । पु॒त्रः । क्रतु॑ऽभिः । य॒ता॒नः । आ । प॒व॒स्व॒ । वि॒शे । अ॒स्यै । अजी॑तिम् ॥

सायणभाष्यम्

दिवोन यथादिवोद्योतमानस्य आदित्यस्याह्नां संबन्धिनः सर्गारश्मयः अससृग्रं विसृ- ज्यन्ते तद्वत् सोमस्य सर्गाः सृज्यन्ते इतिसर्गाधाराः विसृज्यन्ते सृजेर्व्यत्ययेनकर्मार्थेलङि- बहुलंछन्दसीतिशस्यश्लुः झेरमादेशश्छांदसः । धीरः प्राज्ञोराजा अयंसोमः मित्रं सखायं नप्रमिनाति नहिनस्ति क्रतुभिः कर्मभिर्यतानोयतमानः पुत्रः पितुर्न पितुर्यथा अपराभवं- करोति तद्वत् कर्मभिर्यतमानस्त्वं अस्यै विशे प्रजायै अजीतिं अपराजितिं अपराभवं आप वस्व आप्रापय यथा नपराजिताभवन्ति तथाकुर्वित्यर्थः ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६