मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३१

संहिता

प्र ते॒ धारा॒ मधु॑मतीरसृग्र॒न्वारा॒न्यत्पू॒तो अ॒त्येष्यव्या॑न् ।
पव॑मान॒ पव॑से॒ धाम॒ गोनां॑ जज्ञा॒नः सूर्य॑मपिन्वो अ॒र्कैः ॥

पदपाठः

प्र । ते॒ । धाराः॑ । मधु॑ऽमतीः । अ॒सृ॒ग्र॒न् । वारा॑न् । यत् । पू॒तः । अ॒ति॒ऽएषि॑ । अव्या॑न् ।
पव॑मान । पव॑से । धाम॑ । गोना॑म् । ज॒ज्ञा॒नः । सूर्य॑म् । अ॒पि॒न्वः॒ । अ॒र्कैः ॥

सायणभाष्यम्

ते तव स्वभूता मधुमतीः मधुगत्योधाराः प्रासृग्रन् तदाप्रसृज्यन्ते यद्यदा पूतोवसती- वरीभिः त्वं अव्यानविभवान् वारान् वालान् पवित्राण्यत्येषि अतीत्य गच्छसि । किंच हेपवमान गोनां गवांधान धारकं पयोलक्षीकृत्य पवसे ततः जज्ञानः जायमानस्त्वं अर्कैर र्चनीयैः स्वतेजोभिः सूर्यमादित्यमपिन्वः पूरयसि ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७