मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३२

संहिता

कनि॑क्रद॒दनु॒ पन्था॑मृ॒तस्य॑ शु॒क्रो वि भा॑स्य॒मृत॑स्य॒ धाम॑ ।
स इन्द्रा॑य पवसे मत्स॒रवा॑न्हिन्वा॒नो वाचं॑ म॒तिभि॑ः कवी॒नाम् ॥

पदपाठः

कनि॑क्रदत् । अनु॑ । पन्था॑म् । ऋ॒तस्य॑ । शु॒क्रः । वि । भा॒सि॒ । अ॒मृत॑स्य । धाम॑ ।
सः । इन्द्रा॑य । प॒व॒से॒ । म॒त्स॒रऽवा॑न् । हि॒न्वा॒नः । वाच॑म् । म॒तिऽभिः॑ । क॒वी॒नाम् ॥

सायणभाष्यम्

अभिषूयमाणः सोमः ऋतस्य सत्यभूतस्य यज्ञस्य पंथां पंथानं मार्गमनु कनिक्रदत् पु- नःपुनः शब्दायते । अथप्रत्यक्षः अमृतस्यामरणधर्मस्य धाम स्थानभूतः मरणरहितइत्यर्थः । तादृशः शुक्रः शुक्लवर्णः त्वं विभासि विशेषेणराजसि मत्सरवान् मदकररसयुक्तः सत्वं इन्द्रायेन्द्रार्थं पवसे क्षरसि । कीदृशः कवीनां स्तोतॄणां मतिभिः सह वाचं शब्दं हिन्वानः प्रेरयन् पवसे ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७