मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३३

संहिता

दि॒व्यः सु॑प॒र्णोऽव॑ चक्षि सोम॒ पिन्व॒न्धारा॒ः कर्म॑णा दे॒ववी॑तौ ।
एन्दो॑ विश क॒लशं॑ सोम॒धानं॒ क्रन्द॑न्निहि॒ सूर्य॒स्योप॑ र॒श्मिम् ॥

पदपाठः

दि॒व्यः । सु॒ऽप॒र्णः । अव॑ । च॒क्षि॒ । सो॒म॒ । पिन्व॑न् । धाराः॑ । कर्म॑णा । दे॒वऽवी॑तौ ।
आ । इ॒न्दो॒ इति॑ । वि॒श॒ । क॒लश॑म् । सो॒म॒ऽधान॑म् । क्रन्द॑न् । इ॒हि॒ । सूर्य॑स्य । उप॑ । र॒श्मिम् ॥

सायणभाष्यम्

हे सोम दिव्योदिविभवः सुपर्णः सुपतनस्त्वं अवचक्षि अवस्तात् पश्य च । चष्टेर्लटि- सिपिव्यत्ययेनपरस्मैपदम् । किंकुर्वन् देववीतौ देवानां हविर्भक्षणस्थानेयज्ञे कर्मणा धाराः पिन्वन् क्षरन् । किंच हे इन्दो सोमधानं कलशं आविश क्रन्दन् शब्दायमानस्त्वं सूर्यस्य प्रेरकस्यादित्यस्य रश्मिंकान्तिमुपोहि उपगच्छ ॥ ३३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७