मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३४

संहिता

ति॒स्रो वाच॑ ईरयति॒ प्र वह्नि॑रृ॒तस्य॑ धी॒तिं ब्रह्म॑णो मनी॒षाम् ।
गावो॑ यन्ति॒ गोप॑तिं पृ॒च्छमा॑ना॒ः सोमं॑ यन्ति म॒तयो॑ वावशा॒नाः ॥

पदपाठः

ति॒स्रः । वाचः॑ । ई॒र॒य॒ति॒ । प्र । वह्निः॑ । ऋ॒तस्य॑ । धी॒तिम् । ब्रह्म॑णः । म॒नी॒षाम् ।
गावः॑ । य॒न्ति॒ । गोऽप॑तिम् । पृ॒च्छमा॑नाः । सोम॑म् । य॒न्ति॒ । म॒तयः॑ । वा॒व॒शा॒नाः ॥

सायणभाष्यम्

वह्निर्वोढा यजमानः तिस्रोवाचः ऋग्यजुःसामात्मिकाः स्तुतीः प्रेरयति । तथा ऋत- स्य यज्ञस्यधीतिं धारयित्रीं ब्रह्मणःपरिवृढस्य सोमस्य मनीषां मनसईशित्रीं कल्याणीं वाचं च प्रेरयति । किंच गोपतिं वृषभंयथा गावोभिगच्छन्ति तद्वत् । गवांस्वामिनं सोमं गावः पृच्छमानाः पृच्छंत्यः सत्योयन्ति स्वपयसामिश्रयितुमभिगच्छन्ति । तथा वावशानाः कामयमानाः मतयः स्तोतारः सोमं यन्ति स्तोतुमभिगच्छन्ति ॥ ३४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७