मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३५

संहिता

सोमं॒ गावो॑ धे॒नवो॑ वावशा॒नाः सोमं॒ विप्रा॑ म॒तिभि॑ः पृ॒च्छमा॑नाः ।
सोमः॑ सु॒तः पू॑यते अ॒ज्यमा॑न॒ः सोमे॑ अ॒र्कास्त्रि॒ष्टुभ॒ः सं न॑वन्ते ॥

पदपाठः

सोम॑म् । गावः॑ । धे॒नवः॑ । वा॒व॒शा॒नाः । सोम॑म् । विप्राः॑ । म॒तिऽभिः॑ । पृ॒च्छमा॑नाः ।
सोमः॑ । सु॒तः । पू॒य॒ते॒ । अ॒ज्यमा॑नः । सोमे॑ । अ॒र्काः । त्रि॒ऽस्तुभः॑ । सम् । न॒व॒न्ते॒ ॥

सायणभाष्यम्

धेनवः प्रीणयित्र्योगावः सोमं वावशानाः कामयमानाभवन्तिविप्रामेधाविनः स्तोतारः मतिभिः पृच्छमानाः पृच्छन्तोभवन्ति । अज्यमानः गोभिः सिच्यमानः सुतोभिषुतः सोमः ऋत्विग्भिः परिपूयते । तथा त्रिष्टुभः त्रिष्टुब्रूपाः अर्काः अस्माभिः क्रियमाणाः एतेमंत्राः सोमे संनवन्ते संगच्छन्ते ॥ ३५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७