मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३६

संहिता

ए॒वा नः॑ सोम परिषि॒च्यमा॑न॒ आ प॑वस्व पू॒यमा॑नः स्व॒स्ति ।
इन्द्र॒मा वि॑श बृह॒ता रवे॑ण व॒र्धया॒ वाचं॑ ज॒नया॒ पुरं॑धिम् ॥

पदपाठः

ए॒व । नः॒ । सो॒म॒ । प॒रि॒ऽसि॒च्यमा॑नः । आ । प॒व॒स्व॒ । पू॒यमा॑नः । स्व॒स्ति ।
इन्द्र॑म् । आ । वि॒श॒ । बृ॒ह॒ता । रवे॑ण । व॒र्धय॑ । वाच॑म् । ज॒नय॑ । पुर॑म्ऽधिम् ॥

सायणभाष्यम्

हेसोम परिषिच्यमानः परितः पात्रेषु सिच्यमानः पूयमानस्त्वं नोस्माकमेव स्वस्ति अविनाशमापवस्व आप्रापय । किंच बृहता महता रवेण शब्देनसह इन्द्रमाविश प्रविश तथा वाचं स्तुतिलक्षणां वर्धय । किंच पुरंधिं बहुधियं प्रज्ञानं जनय अस्मभ्यं उत्पादय । वाक्यभेदादनिघातः ॥ ३६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८