मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३७

संहिता

आ जागृ॑वि॒र्विप्र॑ ऋ॒ता म॑ती॒नां सोमः॑ पुना॒नो अ॑सदच्च॒मूषु॑ ।
सप॑न्ति॒ यं मि॑थु॒नासो॒ निका॑मा अध्व॒र्यवो॑ रथि॒रासः॑ सु॒हस्ता॑ः ॥

पदपाठः

आ । जागृ॑विः । विप्रः॑ । ऋ॒ता । म॒ती॒नाम् । सोमः॑ । पु॒ना॒नः । अ॒स॒द॒त् । च॒मूषु॑ ।
सप॑न्ति । यम् । मि॒थु॒नासः॑ । निऽका॑माः । अ॒ध्व॒र्यवः॑ । र॒थि॒रासः॑ । सु॒ऽहस्ताः॑ ॥

सायणभाष्यम्

जागृविर्जागरणशीलः ऋता सुपांसुलुगितिषष्ठ्याआकारः । ऋतानां सत्यानां मतीनां स्तुतीनां विप्रोज्ञाता ससोमः पुनानः पूयमानःसन् चमूषु चमसेष्वासदत् आसीदति । मिथुनासः परस्परंसंगताः निकामाः नितरांकामयमानाः रथिरासः यज्ञस्यनेतारः सुहस्ताः कल्याणपाणयः अध्वर्यवः पवित्रे यं सोमंसपन्ति स्पृशन्ति । षपसमवाये । सपतिःस्पृश- तिकर्मेतिनैरुक्ताः ॥ ३७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८