मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३८

संहिता

स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः ।
प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥

पदपाठः

सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । आ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः ।
प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥

सायणभाष्यम्

पुनानः पूयमानः ससोमः इन्द्रे उपगच्छति । तत्रदृष्टन्तः—सूरेन यथा सूर्ये धाता संवत्सरउपगच्छति । ससंवत्सरोविधातारम् । संवत्सरेणैवास्मैप्रजाःप्रजनयतीत्याम्नानात् । किंचोभेरोदसी द्यावापृथिव्यौ आप्राः स्वमहिम्ना आपूरयति । तथा ससोमः व्यावः स्व- तेजसा तमांसि विवृणोति । वृणोतेर्मंत्रेघसेतिच्लेर्लुक् छन्दस्यपिदृश्यतेइत्यडागमः पूर्वपदा- दितिसइत्यस्यसांहितिकंषत्वम् । प्रिया षष्ठ्याआकारः प्रियस्य यस्यसोमस्य यद्वा प्रियाणि प्रयच्छतः यस्यसोमस्य प्रियसासः अत्यन्तं प्रियतमाधाराः ऊती रक्षणाय भवन्ति स तु क्षिप्रं अस्मभ्यं धनं प्रयंसत् प्रयच्छतु । यच्छतेर्लेटिसिप्यडागमः । तत्रदृष्टान्तः—कारिणेन यथा कारिणे च कृतकाय भृतिं प्रयच्छन्ति तद्वत् ॥ ३८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८