मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ३९

संहिता

स व॑र्धि॒ता वर्ध॑नः पू॒यमा॑न॒ः सोमो॑ मी॒ढ्वाँ अ॒भि नो॒ ज्योति॑षावीत् ।
येना॑ न॒ः पूर्वे॑ पि॒तरः॑ पद॒ज्ञाः स्व॒र्विदो॑ अ॒भि गा अद्रि॑मु॒ष्णन् ॥

पदपाठः

सः । व॒र्धि॒ता । वर्ध॑नः । पू॒यमा॑नः । सोमः॑ । मी॒ढ्वान् । अ॒भि । नः॒ । ज्योति॑षा । आ॒वी॒त् ।
येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । स्वः॒ऽविदः॑ । अ॒भि । गाः । अद्रि॑म् । उ॒ष्णन् ॥

सायणभाष्यम्

वर्धिता देवानां स्वकलाप्रदानेन वर्धयिता वर्धनः स्वयंवर्धमानः पवित्रेण पूयमानः मीढ्वान् कामानांसेक्ता ससोमः नोस्माकं ज्योतिषा स्वतेजसा अभ्यावीत् अभिरक्षतु । येन सोमेन पदज्ञाः पणिभिरपहृतानां गवांपदानि जानन्तः स्वर्विदः सर्वज्ञाः सूर्यंजान- न्तोवा नोस्माकंपूर्वे चिरन्तनाः पितरोंगिरसःगाः पशूनभिलक्ष्य अद्रिमुष्णन् शिलोच्चय- मुष्णन् सोमतेजसा अंधकारावृतं शिलोच्चयंगत्वा पशूनाहरन्नित्यर्थः । उषिरिहमुष्णाति- समानकर्मा । यद्वा मुष्णातेर्लङि वर्णलोपः ॥ ३९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८