मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४२

संहिता

मत्सि॑ वा॒युमि॒ष्टये॒ राध॑से च॒ मत्सि॑ मि॒त्रावरु॑णा पू॒यमा॑नः ।
मत्सि॒ शर्धो॒ मारु॑तं॒ मत्सि॑ दे॒वान्मत्सि॒ द्यावा॑पृथि॒वी दे॑व सोम ॥

पदपाठः

मत्सि॑ । वा॒युम् । इ॒ष्टये॑ । राध॑से । च॒ । मत्सि॑ । मि॒त्रावरु॑णा । पू॒यमा॑नः ।
मत्सि॑ । शर्धः॑ । मारु॑तम् । मत्सि॑ । दे॒वान् । मत्सि॑ । द्यावा॑पृथि॒वी इति॑ । दे॒व॒ । सो॒म॒ ॥

सायणभाष्यम्

हे सोम त्वं वायुं मत्सि मादय । किमर्थं अस्माकमेषणाय अन्नाय राधसे धनाय च । तथा पूयमानः पवित्रेण त्वं मित्रावरुणा च मत्सि तर्पयसि । किंच मारुतं मरुतां स्वभूतं रार्धोबलं च मत्सि । तथा देवानिन्द्रादीन् मत्सि हर्षयसि । हेदेव स्तोतव्य हेसोम द्यावापृथिवी द्यावापृथिव्यौ च मत्सि मादय एतान् हर्षयुक्तान् कृत्वास्मभ्यंधनं प्रयच्छेत्यर्थः ॥ ४२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९