मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४३

संहिता

ऋ॒जुः प॑वस्व वृजि॒नस्य॑ ह॒न्तापामी॑वां॒ बाध॑मानो॒ मृध॑श्च ।
अ॒भि॒श्री॒णन्पय॒ः पय॑सा॒भि गोना॒मिन्द्र॑स्य॒ त्वं तव॑ व॒यं सखा॑यः ॥

पदपाठः

ऋ॒जुः । प॒व॒स्व॒ । वृ॒जि॒नस्य॑ । ह॒न्ता । अप॑ । अमी॑वाम् । बाध॑मानः । मृधः॑ । च॒ ।
अ॒भि॒ऽश्री॒णन् । पयः॑ । पय॑सा । अ॒भि । गोना॑म् । इन्द्र॑स्य । त्वम् । तव॑ । व॒यम् । सखा॑यः ॥

सायणभाष्यम्

हेसोम ऋजुः ऋजुगमनःसन् पवस्व क्षर । किंकुर्वन् वृजिनस्य उपद्रवस्य हन्ता अमी वां रोगरूपं राक्षसं अपबाधमानः तथा अस्मदीयान् मृधोहिंसकान् शत्रूंश्च बाधमानः सन् पवस्व ततः पयआत्मीयंरसं गोनां गवांपयसाक्षीरेण अभिश्रीणन् अभिसंयोजयन् पात्राण्य- भिगच्छसि । अपिच त्वं इन्द्रस्य सखासि हेसोम तव वयं सखायः स्तुत्यस्तोतृत्वयष्टृयष्ट-व्यत्वलक्षणेन सखिभूताः स्मः ॥ ४३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९