मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४४

संहिता

मध्व॒ः सूदं॑ पवस्व॒ वस्व॒ उत्सं॑ वी॒रं च॑ न॒ आ प॑वस्वा॒ भगं॑ च ।
स्वद॒स्वेन्द्रा॑य॒ पव॑मान इन्दो र॒यिं च॑ न॒ आ प॑वस्वा समु॒द्रात् ॥

पदपाठः

मध्वः॑ । सूद॑म् । प॒व॒स्व॒ । वस्वः॑ । उत्स॑म् । वी॒रम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । भग॑म् । च॒ ।
स्वद॑स्व । इन्द्रा॑य । पव॑मानः । इ॒न्दो॒ इति॑ । र॒यिम् । च॒ । नः॒ । आ । प॒व॒स्व॒ । स॒मु॒द्रात् ॥

सायणभाष्यम्

हे सोम मध्वोमाधुर्यस्य सूदं क्षारयितारं घनीभूतं आपवस्व । वस्वो वसु धनस्य उत्सं उत्सन्दकं रसं पवस्व । किंच नोस्मभ्यं वीरं पुत्रं आपवस्व आप्रापय । तथा भगं भजनीयं धनंच देहि । हेइन्दो पवमानः पूयमानः सन् इन्द्राय स्वदस्व रुचितोभव । ततस्त्वं नोस्मभ्यं समुद्रादन्तरिक्षात् रयिं धनं पुत्रंवा राति ददाति क्षीरमिति रयिर्गैर्वा तांवा पवस्व देहि ॥ ४४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९