मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४५

संहिता

सोमः॑ सु॒तो धार॒यात्यो॒ न हित्वा॒ सिन्धु॒र्न नि॒म्नम॒भि वा॒ज्य॑क्षाः ।
आ योनिं॒ वन्य॑मसदत्पुना॒नः समिन्दु॒र्गोभि॑रसर॒त्सम॒द्भिः ॥

पदपाठः

सोमः॑ । सु॒तः । धार॑या । अत्यः॑ । न । हित्वा॑ । सिन्धुः॑ । न । नि॒म्नम् । अ॒भि । वा॒जी । अ॒क्षा॒रिति॑ ।
आ । योनि॑म् । वन्य॑म् । अ॒स॒द॒त् । पु॒ना॒नः । सम् । इन्दुः॑ । गोभिः॑ । अ॒स॒र॒त् । सम् । अ॒त्ऽभिः ॥

सायणभाष्यम्

सुतोभिषुतः सोमोधारयास्वीयया अत्योनअतनशीलोश्वइव हित्वागत्वा हिनोतेः क्वनि- पिरूपम् । किंच वाजी बलवान् सोमः सिन्धुर्न यथासिन्धुः स्यन्दमाना नदी निम्नं प्रदेश- मभिगच्छति तद्वत् निम्नमधरभाविनं कलशमभ्यक्षाः अभिक्षरति । ततः पुनानः पूयमानः सोमः वन्यं वृक्षभवं योनिं योनिस्थानं कलशं आसदत् आसीदति । सोयमिन्दुः सोमः गीर्भिर्गोविकारैः क्षीरादिभिः श्रयणैः सं असरत् संसरति तथा अद्भिर्वसतीवरोभिश्च संग- च्छते ॥ ४५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १९