मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४६

संहिता

ए॒ष स्य ते॑ पवत इन्द्र॒ सोम॑श्च॒मूषु॒ धीर॑ उश॒ते तव॑स्वान् ।
स्व॑र्चक्षा रथि॒रः स॒त्यशु॑ष्म॒ः कामो॒ न यो दे॑वय॒तामस॑र्जि ॥

पदपाठः

ए॒षः । स्यः । ते॒ । प॒व॒ते॒ । इ॒न्द्र॒ । सोमः॑ । च॒मूषु॑ । धीरः॑ । उ॒श॒ते । तव॑स्वान् ।
स्वः॑ऽचक्षाः । र॒थि॒रः । स॒त्यऽशु॑ष्मः । कामः॑ । न । यः । दे॒व॒ऽय॒ताम् । अस॑र्जि ॥

सायणभाष्यम्

हे इन्द्र उशते कामयमानाय ते तुभ्यं त्वदर्थं धीरः प्राज्ञः तवस्वान् वेगवान् स्यः सएषसोमः चमूषु चमसेषु पवते क्षरति स्वर्चक्षाः सर्वदर्शिनः रथिरोरथवान् सत्यशुश्मः यथार्थबलोयः सोमः देवयतां देवानिच्छतां यजमानानां कामोन कामदइवासर्जि असृज्यत अदीयतइत्यर्थः ॥ ४६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०