मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४७

संहिता

ए॒ष प्र॒त्नेन॒ वय॑सा पुना॒नस्ति॒रो वर्पां॑सि दुहि॒तुर्दधा॑नः ।
वसा॑न॒ः शर्म॑ त्रि॒वरू॑थम॒प्सु होते॑व याति॒ सम॑नेषु॒ रेभ॑न् ॥

पदपाठः

ए॒षः । प्र॒त्नेन॑ । वय॑सा । पु॒ना॒नः । ति॒रः । वर्पां॑सि । दु॒हि॒तुः । दधा॑नः ।
वसा॑नः । शर्म॑ । त्रि॒ऽवरू॑थम् । अ॒प्ऽसु । होता॑ऽइव । या॒ति॒ । सम॑नेषु । रेभ॑न् ॥

सायणभाष्यम्

प्रत्नेन पूर्वकालीनेन वयसा अन्नेन पुनानः पूयमानः अन्नात्मिकया धारया क्षरन्नित्य- र्थः तादृशः दुहितुः सर्वस्यदोग्ध्र्याः पृथिव्यां वर्पांसि वर्पइतिरूपनाम वृणोति शरीरमिति रूपाणि तिरोदधानः स्वतेजसा तिरस्कुर्वन् आच्छादयन् तथा त्रिवरूथं त्रिभूमिकोपेतं यद्वा त्रयः शीतातपवर्षाः तेषां निवारकं शर्म यज्ञगृहं वसानः आच्छादयन् अप्सु वसती- वरीषुस्थितः एषसोमः होतेव यथाहोता स्तुतिध्वनिं कुर्वन् यज्ञेषु याति तद्वत् रेभन् शब्दायमानःसन् समनेषु समन्ति कर्माणिधृष्टाः प्रगल्भायंत्यत्रेति समना यज्ञाः तेषु याति गच्छति ॥ ४७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०