मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ४८

संहिता

नू न॒स्त्वं र॑थि॒रो दे॑व सोम॒ परि॑ स्रव च॒म्वो॑ः पू॒यमा॑नः ।
अ॒प्सु स्वादि॑ष्ठो॒ मधु॑माँ ऋ॒तावा॑ दे॒वो न यः स॑वि॒ता स॒त्यम॑न्मा ॥

पदपाठः

नु । नः॒ । त्वम् । र॒थि॒रः । दे॒व॒ । सो॒म॒ । परि॑ । स्र॒व॒ । च॒म्वोः॑ । पू॒यमा॑नः ।
अ॒प्ऽसु । स्वादि॑ष्ठः । मधु॑ऽमान् । ऋ॒तऽवा॑ । दे॒वः । न । यः । स॒वि॒ता । स॒त्यऽम॑न्मा ॥

सायणभाष्यम्

हे देव काम्यमान हेसोम रथिरोरथवांस्त्वं नोस्माकं स्वभूतेयज्ञे चम्वोरधिषवणफलक- योः पूयमानः सन् अप्सु वसतीवरीषु नुक्षिप्रं परिस्रव परितः क्षर । स्वादिष्ठः स्वादुतमः अतएव मधुमान् माधुर्ययुक्तः ऋतावा ऋतवान् यज्ञवान् सविता सर्वस्यप्रेरकोयस्त्वं देवोन देवइव सत्यमन्मा सत्यस्तुतिकोभवसि सत्वं परिस्रवेति ॥ ४८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०