मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५५

संहिता

सं त्री प॒वित्रा॒ वित॑तान्ये॒ष्यन्वेकं॑ धावसि पू॒यमा॑नः ।
असि॒ भगो॒ असि॑ दा॒त्रस्य॑ दा॒तासि॑ म॒घवा॑ म॒घव॑द्भ्य इन्दो ॥

पदपाठः

सम् । त्री । प॒वित्रा॑ । विऽत॑तानि । ए॒षि॒ । अनु॑ । एक॑म् । धा॒व॒सि॒ । पू॒यमा॑नः ।
असि॑ । भगः॑ । असि॑ । दा॒त्रस्य॑ । दा॒ता । असि॑ । म॒घऽवा॑ । म॒घव॑त्ऽभ्यः । इ॒न्दो॒ इति॑ ॥

सायणभाष्यम्

हेसोम विततानि विस्तृतानि त्री त्रीणि पवित्रा अग्निवायुसूर्यात्मकानि पवित्राणि समेषि सम्यक् प्राप्नोषि । किंच पूयमानस्त्वं एकमविवालकृतंपवित्रं अनुधावसि अनुगच्छ- सि । किंचत्वं भगोभजनीयोसि तथा दात्रस्यदेयस्यधनस्य दातासि । कथमस्यधनदत्वमिति चेत्तदुच्यते । हेइन्दो सोम मघवद्भ्योन्येभ्योपित्वं मघवासि अतिशयेन धनवान् भवसि ॥ ५५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१