मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५६

संहिता

ए॒ष वि॑श्व॒वित्प॑वते मनी॒षी सोमो॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॑ ।
द्र॒प्साँ ई॒रय॑न्वि॒दथे॒ष्विन्दु॒र्वि वार॒मव्यं॑ स॒मयाति॑ याति ॥

पदपाठः

ए॒षः । वि॒श्व॒ऽवित् । प॒व॒ते॒ । म॒नी॒षी । सोमः॑ । विश्व॑स्य । भुव॑नस्य । राजा॑ ।
द्र॒प्सान् । ई॒रय॑न् । वि॒दथे॑षु । इन्दुः॑ । वि । वार॑म् । अव्य॑म् । स॒मया॑ । अति॑ । या॒ति॒ ॥

सायणभाष्यम्

विश्ववित् सर्वस्यवेत्ता अतएव मनीषी मेधावी विश्वस्य भुवनस्य सर्वस्य लोकस्य राजा स्वामी एषसोमः पवते क्षरति । एतदेव विवृणोति । विदथेषु विन्दन्ति जानंत्य- त्रदेवानिति । यद्वा विन्दन्ति लभन्ते विदथायज्ञास्तेषु द्रप्सान् रसकणान् ईरयन् प्रेरयन् । इन्दुः सोमः अव्यं अविभवं वारं वालं पवित्रं समया उभयतः व्यतियाति व्यतीत्यगच्छ- ति ॥ ५६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२