मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९७, ऋक् ५७

संहिता

इन्दुं॑ रिहन्ति महि॒षा अद॑ब्धाः प॒दे रे॑भन्ति क॒वयो॒ न गृध्रा॑ः ।
हि॒न्वन्ति॒ धीरा॑ द॒शभि॒ः क्षिपा॑भि॒ः सम॑ञ्जते रू॒पम॒पां रसे॑न ॥

पदपाठः

इन्दु॑म् । रि॒ह॒न्ति॒ । म॒हि॒षाः । अद॑ब्धाः । प॒दे । रे॒भ॒न्ति॒ । क॒वयः॑ । न । गृध्राः॑ ।
हि॒न्वन्ति॑ । धीराः॑ । द॒शऽभिः॑ । क्षिपा॑भिः । सम् । अ॒ञ्ज॒ते॒ । रू॒पम् । अ॒पाम् । रसे॑न ॥

सायणभाष्यम्

महिषा महान्तः पूज्यावा अतएवादव्धाः कैश्चिदप्याहिंसिता देवा इन्दुं सोमं रिहन्ति लिहंत्यास्वादयन्ति । किंच देवाः सोममुशन्तः सन्तः पदे तस्यास्य सोमस्य धारास्थाने रेभन्ति शब्दायन्ते । तत्र दृष्टान्तः—कवयोनगृध्राः धनमभिकांक्षमाणाः कवयः स्तोतारो- यथा स्तुवन्तः शब्दायन्ते तद्वत् धीराः कर्मणिकुशला ऋत्विजः दशभिः एतत्संख्याकाभिः क्षिपाभिरंगुलीभिः तमिमंसोमं हिन्वंति अभिषवार्थं प्रेरयन्ति । अपिच रूपं अंशुं अपां वसतीवर्याख्यानां रसेन समंजते सम्यक् सेवयन्ति ॥ ५७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २२