मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् २

संहिता

परि॒ ष्य सु॑वा॒नो अ॒व्ययं॒ रथे॒ न वर्मा॑व्यत ।
इन्दु॑र॒भि द्रुणा॑ हि॒तो हि॑या॒नो धारा॑भिरक्षाः ॥

पदपाठः

परि॑ । स्यः । सु॒वा॒नः । अ॒व्यय॑म् । रथे॑ । न । वर्म॑ । अ॒व्य॒त॒ ।
इन्दुः॑ । अ॒भि । द्रुणा॑ । हि॒तः । हि॒या॒नः । धारा॑भिः । अ॒क्षा॒रिति॑ ॥

सायणभाष्यम्

सुवानः सूयमानः स्यः ससोमः अव्ययमविमयं पवित्रं परिपवते । तत्रदृष्टान्तः—रथेन यथा रथेस्थितः पुरुषः वर्मकवचमव्यत परिव्ययति । व्ययतेर्लुङिवर्णलोपश्छान्दसः । अभि- हितः अभितः प्रेरितः । यद्वा स्तोतृभिरभिष्टुतः सइन्दुः सोमः द्रुणा द्रुममयेन द्रोणकलशॆ- न हियानः हि गतौवृद्धौच तेन पूर्यमाणःसन् धाराभिः अक्षाः क्षरति । क्षरतेर्लुङिरूपं ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३