मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ३

संहिता

परि॒ ष्य सु॑वा॒नो अ॑क्षा॒ इन्दु॒रव्ये॒ मद॑च्युतः ।
धारा॒ य ऊ॒र्ध्वो अ॑ध्व॒रे भ्रा॒जा नैति॑ गव्य॒युः ॥

पदपाठः

परि॑ । स्यः । सु॒वा॒नः । अ॒क्षा॒रिति॑ । इन्दुः॑ । अव्ये॑ । मद॑ऽच्युतः ।
धारा॑ । यः । ऊ॒र्ध्वः । अ॒ध्व॒रे । भ्रा॒जा । न । एति॑ । ग॒व्य॒ऽयुः ॥

सायणभाष्यम्

सुवानः सूयमानः स्यः सइन्दुः सोमः मदच्युतः मदार्थं देवैः प्रेरितःसन् अव्ये अवि- भवे पवित्रे पर्यक्षाः परितःक्षरति अध्वरे । ऊर्ध्वः समुच्छ्रितः सर्वेषांमुख्योयः सोमः गव्य युः गोकामः । यद्वाक्षीरादिकं कामयमानःसन् धारा धारया सह एति गच्छति । भ्राजा न भ्राजमानया दीप्त्या यथान्तरिक्षे गच्छाति तद्वत् ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३