मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ४

संहिता

स हि त्वं दे॑व॒ शश्व॑ते॒ वसु॒ मर्ता॑य दा॒शुषे॑ ।
इन्दो॑ सह॒स्रिणं॑ र॒यिं श॒तात्मा॑नं विवाससि ॥

पदपाठः

सः । हि । त्वम् । दे॒व॒ । शश्व॑ते । वसु॑ । मर्ता॑य । दा॒शुषे॑ ।
इन्दो॒ इति॑ । स॒ह॒स्रिण॑म् । र॒यिम् । श॒तऽआ॑त्मानम् । वि॒वा॒स॒सि॒ ॥

सायणभाष्यम्

हे देव सोम सत्वं शश्वते पुत्रादिमत्वेन बहवे मर्ताय मनुष्याय दाशुषे हविर्दत्तवते यजमानाय वसु धनं विवाससि । हेइन्दो सोम त्वं सहस्रिणं सहस्रसंख्याकं रयिं धनं श- तात्मानं अपरिमितपुत्रपौत्राद्युपेतं मह्यंच विवाससि प्रेरयसि । एकवाक्यतापक्षेहि तिङ- न्तस्यहियोगादनिघातः स्यात् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३