मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ५

संहिता

व॒यं ते॑ अ॒स्य वृ॑त्रह॒न्वसो॒ वस्व॑ः पुरु॒स्पृहः॑ ।
नि नेदि॑ष्ठतमा इ॒षः स्याम॑ सु॒म्नस्या॑ध्रिगो ॥

पदपाठः

व॒यम् । ते॒ । अ॒स्य । वृ॒त्र॒ऽह॒न् । वसो॒ इति॑ । वस्वः॑ । पु॒रु॒ऽस्पृहः॑ ।
नि । नेदि॑ष्ठऽतमाः । इ॒षः । स्याम॑ । सु॒म्नस्य॑ । अ॒ध्रि॒गो॒ इत्य॑ध्रिऽगो ॥

सायणभाष्यम्

हे वृत्रहन् शत्रूणांहन्तः सोम अस्यैतादृशस्य ते तव स्वभूतावयं स्मः । हेवसो वास- यितः पुरुस्पृहः बहुभिः स्पृहणीयस्य वस्वोवसुनोधनस्य त्वयादीयमानस्य वयं नितरां नेदिष्ठतमाः अत्यंतमन्तिकतमाः स्याम । तथा इषोन्नस्य । किंच हे अध्रिगो अधृतगमन- सोम सुम्नस्य सुखस्य वयमन्तिकतमाः स्याम भवेम ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३