मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ६

संहिता

द्विर्यं पञ्च॒ स्वय॑शसं॒ स्वसा॑रो॒ अद्रि॑संहतम् ।
प्रि॒यमिन्द्र॑स्य॒ काम्यं॑ प्रस्ना॒पय॑न्त्यू॒र्मिण॑म् ॥

पदपाठः

द्विः । यम् । पञ्च॑ । स्वऽय॑शसम् । स्वसा॑रः । अद्रि॑ऽसंहतम् ।
प्रि॒यम् । इन्द्र॑स्य । काम्य॑म् । प्र॒ऽस्ना॒पय॑न्ति । ऊ॒र्मिण॑म् ॥

सायणभाष्यम्

द्विः पञ्च दशसंख्याकाः स्वसारः कर्मकरणार्थमितस्ततोगच्छंत्योंगुलयः स्वयशसं स्व- भूतयशस्कं अद्रिसंहतं ग्रावभिरभिषुतं इन्द्रस्य प्रियं काम्यं सर्वैःकाम्यमानं ऊर्मिणं धारा- भिस्तद्वन्तं यं सोमं प्रस्नापयन्ति वसतीवरीभिः प्रकर्षेण सेवयन्ति यजमानाः तं पुनन्ती- त्युत्तरत्रसंबन्धः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २३