मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ७

संहिता

परि॒ त्यं ह॑र्य॒तं हरिं॑ ब॒भ्रुं पु॑नन्ति॒ वारे॑ण ।
यो दे॒वान्विश्वाँ॒ इत्परि॒ मदे॑न स॒ह गच्छ॑ति ॥

पदपाठः

परि॑ । त्यम् । ह॒र्य॒तम् । हरि॑म् । ब॒भ्रुम् । पु॒न॒न्ति॒ । वारे॑ण ।
यः । दे॒वान् । विश्वा॑न् । इत् । परि॑ । मदे॑न । स॒ह । गच्छ॑ति ॥

सायणभाष्यम्

हर्यतं सर्वैःस्पृहणीयं हरिं हरितवर्णं बभ्रुं बभ्रुवर्णंच त्यं तं सोमं वारेण वालेन पवि- त्रेण परिपुनन्ति परिशोधयन्ति । यः सोमः विश्वान् सर्वानिन्द्रादीन् देवानित् देवानेव मदेन मादकेन रसेन सह परिगच्छति ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४