मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ९

संहिता

स वां॑ य॒ज्ञेषु॑ मानवी॒ इन्दु॑र्जनिष्ट रोदसी ।
दे॒वो दे॑वी गिरि॒ष्ठा अस्रे॑ध॒न्तं तु॑वि॒ष्वणि॑ ॥

पदपाठः

सः । वा॒म् । य॒ज्ञेषु॑ । मा॒न॒वी॒ इति॑ । इन्दुः॑ । ज॒नि॒ष्ट॒ । रो॒द॒सी॒ इति॑ ।
दे॒वः । दे॒वी॒ इति॑ । गि॒रि॒ऽस्थाः । अस्रे॑धन् । तम् । तु॒वि॒ऽस्वनि॑ ॥

सायणभाष्यम्

हे मानवी मानव्यौ मनोःस्वभूते हेदेवी द्योतमाने हे रोदसी द्यावापृथिव्यौ वां युव- योः यज्ञेषुसइन्दुः सोमः जनिष्ट अजनि अन्तरिक्षे देवः स्वतेजसा सर्वंप्रकाशयन् पृथिव्यां गिरिष्ठाः ग्रावसुतिष्ठन् तंजातं सोमं तुविस्वनि बहुस्वने उपरे यज्ञेवा अस्रेधन् ऋत्विजो- ग्रावभिः अघ्नन् अभ्यषुण्वन्नितियावत् ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४