मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् १०

संहिता

इन्द्रा॑य सोम॒ पात॑वे वृत्र॒घ्ने परि॑ षिच्यसे ।
नरे॑ च॒ दक्षि॑णावते दे॒वाय॑ सदना॒सदे॑ ॥

पदपाठः

इन्द्रा॑य । सो॒म॒ । पात॑वे । वृ॒त्र॒ऽघ्ने । परि॑ । सि॒च्य॒से॒ ।
नरे॑ । च॒ । दक्षि॑णाऽवते । दे॒वाय॑ । स॒द॒न॒ऽसदे॑ ॥

सायणभाष्यम्

हे सोम वृत्रघ्ने वृत्रस्यहंत्रे इन्द्राय षष्ट्यर्थेचतुर्थी इन्द्रस्य पातवे पानार्थं परिषिच्यसे परितः पात्रेषु सिच्यसे । वसतीवरीभिर्वा । किंच दक्षिणावते ऋत्विग्भ्योदक्षिणादानेन तद्वते देवाय देवार्थं हवींषिदातुं सदनसदे यज्ञगृहे सीदते नरे मनुष्याय यजमानाय तस्मै फलदा नार्थंपरिषिच्यसे ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४