मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९८, ऋक् ११

संहिता

ते प्र॒त्नासो॒ व्यु॑ष्टिषु॒ सोमा॑ः प॒वित्रे॑ अक्षरन् ।
अ॒प॒प्रोथ॑न्तः सनु॒तर्हु॑र॒श्चितः॑ प्रा॒तस्ताँ अप्र॑चेतसः ॥

पदपाठः

ते । प्र॒त्नासः॑ । विऽउ॑ष्टिषु । सोमाः॑ । प॒वित्रे॑ । अ॒क्ष॒र॒न् ।
अ॒प॒ऽप्रोथ॑न्तः । स॒नु॒तः । हु॒रः॒ऽचितः॑ । प्रा॒तरिति॑ । तान् । अप्र॑ऽचेतसः ॥

सायणभाष्यम्

व्युष्टिषु उषसां व्युच्छनेषु प्रकाशनेषु प्रत्नासः प्रत्नाः ते सोमाः पवित्रे अक्षरन् क्षरन्ति । योसोमाः सनुतः अन्तर्हितान् अप्रचेतसः प्रज्ञारहितान् हुरश्चितः स्तेननामैतत् कौटिल्येन चिन्वन्तीति तान् मायाविनः स्तेनान् प्रातः प्रातःकालएव अपप्रोथन्तः अपप्रोथनं चाप- प्रेरणं अपप्रेरयन्तः शब्देननिराकुर्वन्तोभवन्ति तेक्षरन्तीतिसमन्वयः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४