तं स॑खायः पुरो॒रुचं॑ यू॒यं व॒यं च॑ सू॒रयः॑ ।
अ॒श्याम॒ वाज॑गन्ध्यं स॒नेम॒ वाज॑पस्त्यम् ॥
तम् । स॒खा॒यः॒ । पु॒रः॒ऽरुच॑म् । यू॒यम् । व॒यम् । च॒ । सू॒रयः॑ ।
अ॒श्याम॑ । वाज॑ऽगन्ध्यम् । स॒नेम॑ । वाज॑ऽपस्त्यम् ॥
हे सखायः स्तोतारः सूरयः प्राज्ञा यूयं वयंच यजमानाः पुरोरुचं पुरतोरोचमानं वा- जगंध्यं बलकरसाधुगंधोपेतं तत्रभवं सोमं अश्याम अश्नीम पिबेम । किंच वाजपस्त्यं अन्न युक्तगृहसहितम् । यद्वा बलकरं सोमं सनेम संभजेमहि सोमेन बलान्नगृहादीनि भवन्तीत्य- र्थः ॥ १२ ॥
आहर्यतायेत्यष्टर्चं तृतीयंसूक्तं कश्यपगोत्रौरेभसून् एतत्संज्ञौ द्वावृषी आद्याबृहती सप्ता- नुष्टुभः पवमानः सोमोदेवता । तथाचानुक्रान्तं—आहर्यतायाष्टौ रेभसूनूकाश्यपौबृहत्याद्येति । गतोविनियोगः ।