आ ह॑र्य॒ताय॑ धृ॒ष्णवे॒ धनु॑स्तन्वन्ति॒ पौंस्य॑म् ।
शु॒क्रां व॑य॒न्त्यसु॑राय नि॒र्णिजं॑ वि॒पामग्रे॑ मही॒युवः॑ ॥
आ । ह॒र्य॒ताय॑ । धृ॒ष्णवे॑ । धनुः॑ । त॒न्व॒न्ति॒ । पौंस्य॑म् ।
शु॒क्राम् । व॒य॒न्ति॒ । असु॑राय । निः॒ऽनिज॑म् । वि॒पाम् । अग्रे॑ । म॒ही॒युवः॑ ॥
हर्यताय सर्वैःस्पृहणीयाय धृष्णवे शत्रूणांधर्षणशीलाय सोमाय पौंस्यं पुंस्त्वस्याभिव्यं- जकं धनुरातन्वंति धनुषि ज्यांकुर्वन्तीति सोमस्य धाराविसर्गार्थं वितायमानं पवित्रमभि- धीयते । तदेव विवृणोति महीयुवः पूजाकामा ऋत्विजः विपां मेधाविनां देवानामग्ने पुर- स्तात् शुक्रां शुक्लवर्णां निर्निजं ययासोमोनिर्निज्यते तां असुराय बलवते वयन्ति वित- न्वंति । दशापवित्रं विस्तारयन्तीत्यर्थः । वयतिर्गतिकर्मा ॥ १ ॥