मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् ३

संहिता

तम॑स्य मर्जयामसि॒ मदो॒ य इ॑न्द्र॒पात॑मः ।
यं गाव॑ आ॒सभि॑र्द॒धुः पु॒रा नू॒नं च॑ सू॒रयः॑ ॥

पदपाठः

तम् । अ॒स्य॒ । म॒र्ज॒या॒म॒सि॒ । मदः॑ । यः । इ॒न्द्र॒ऽपात॑मः ।
यम् । गावः॑ । आ॒सऽभिः॑ । द॒धुः । पु॒रा । नू॒नम् । च॒ । सू॒रयः॑ ॥

सायणभाष्यम्

अस्य सोमस्य तं रसं मर्जयामसि मर्जयामः अलंकुर्मोवा योमदोमदकरोरसः इन्द्रपा- तमः इन्द्रेणात्यन्तं पातव्योभवति । किंच गावोगन्तारः सूरयः स्तोतारः पुराच नूनमिदा- नींच यंसोमरसं आसभिः दधुर्धारयन्ति पिबन्तीतियावत् । यद्वा गावोधेनवः यंसोमं तृ- णादुष्ववस्थितमासभिरास्यैः दधुर्धारयन्ति तृणरूपेण भक्षयन्ति ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५