मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् ४

संहिता

तं गाथ॑या पुरा॒ण्या पु॑ना॒नम॒भ्य॑नूषत ।
उ॒तो कृ॑पन्त धी॒तयो॑ दे॒वानां॒ नाम॒ बिभ्र॑तीः ॥

पदपाठः

तम् । गाथ॑या । पु॒रा॒ण्या । पु॒ना॒नम् । अ॒भि । अ॒नू॒ष॒त॒ ।
उ॒तो इति॑ । कृ॒प॒न्त॒ । धी॒तयः॑ । दे॒वाना॑म् । नाम॑ । बिभ्र॑तीः ॥

सायणभाष्यम्

पुनानं पूयमानं तं सोमं पुराण्या पुराकृतया गाथया स्तुत्या अभ्यनूषत स्तोतारोभि- ष्टुवन्ति । नुस्तवने लुङिरूपम् । उतो अपिच नामकर्मार्थं नमनं बिभ्रतीर्बिभ्राणाः धीतयोंगु- लयः देवानां सोमरूपहविः प्रदानाय कृपन्त कल्पयन्ति समर्थाभवन्ति । कृपूसामर्थ्ये ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५