तमु॒क्षमा॑णम॒व्यये॒ वारे॑ पुनन्ति धर्ण॒सिम् ।
दू॒तं न पू॒र्वचि॑त्तय॒ आ शा॑सते मनी॒षिणः॑ ॥
तम् । उ॒क्षमा॑णम् । अ॒व्यये॑ । वारे॑ । पु॒न॒न्ति॒ । ध॒र्ण॒सिम् ।
दू॒तम् । न । पू॒र्वऽचि॑त्तये । आ । शा॒स॒ते॒ । म॒नी॒षिणः॑ ॥
उक्षमाणं अद्भिःसिच्यमानं धर्णसिं सर्वस्यधारकं सोमं अव्यये अविमये वारे वाले पवित्रे पुनन्ति शोधयन्ति । ततः मनीषिणोमेधाविनोयजमानाः तमिमंसोमं दूतंन दूतमिव पूर्वचित्तये देवानां पूर्वमेव प्रज्ञापनाय आशासते प्रार्थयते ॥ ५ ॥