मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् ६

संहिता

स पु॑ना॒नो म॒दिन्त॑म॒ः सोम॑श्च॒मूषु॑ सीदति ।
प॒शौ न रेत॑ आ॒दध॒त्पति॑र्वचस्यते धि॒यः ॥

पदपाठः

सः । पु॒ना॒नः । म॒दिन्ऽत॑मः । सोमः॑ । च॒मूषु॑ । सी॒द॒ति॒ ।
प॒शौ । न । रेतः॑ । आ॒ऽदध॑त् । पतिः॑ । व॒च॒स्य॒ते॒ । धि॒यः ॥

सायणभाष्यम्

मदिन्तमः अत्यन्तं मादयिताससोमः पुनानः पूयमानःसन् चमूषु चमसेषु सीदति । ततः पशौन यथापशौ कश्चिद्वृषभोरेतआदधत् आदधाति तद्वच्चमसादिषु रेतः स्वीयंरसं आदधत् आदधानः धियः कर्मणः पतिः पालयिता यं सोमोवचस्यते अभिषूयते ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६