मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् ७

संहिता

स मृ॑ज्यते सु॒कर्म॑भिर्दे॒वो दे॒वेभ्य॑ः सु॒तः ।
वि॒दे यदा॑सु संद॒दिर्म॒हीर॒पो वि गा॑हते ॥

पदपाठः

सः । मृ॒ज्य॒ते॒ । सु॒कर्म॑ऽभिः । दे॒वः । दे॒वेभ्यः॑ । सु॒तः ।
वि॒दे । यत् । आ॒सु॒ । स॒म्ऽद॒दिः । म॒हीः । अ॒पः । वि । गा॒ह॒ते॒ ॥

सायणभाष्यम्

देवेभ्य्तोदेवार्थं सुतोभिषुतः देवोद्योतमानः स्तोतव्योवा ससोमः सुकर्मभिः ऋत्विग्भिः मृज्यते परिपूयते यद्यदायंसोमः आसु प्रजासु संददिः सम्यग्धनदानशीलइति विदे ज्ञायते तदानां महीर्महतीरपोवसतीवरीः विगाहते विशेषेणाभिगच्छति यदासोममभिषुण्वन्ति तदा तेभ्योधनं प्रयच्छतीत्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६