मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ९९, ऋक् ८

संहिता

सु॒त इ॑न्दो प॒वित्र॒ आ नृभि॑र्य॒तो वि नी॑यसे ।
इन्द्रा॑य मत्स॒रिन्त॑मश्च॒मूष्वा नि षी॑दसि ॥

पदपाठः

सु॒तः । इ॒न्दो॒ इति॑ । प॒वित्रे॑ । आ । नृऽभिः॑ । य॒तः । वि । नी॒य॒से॒ ।
इन्द्रा॑य । म॒त्स॒रिन्ऽत॑मः । च॒मूषु॑ । आ । नि । सी॒द॒सि॒ ॥

सायणभाष्यम्

हे इन्दो सुतोभिषुतः यतः आयतः सर्वतोविस्तृतस्त्वं नृभिः कर्मनेतृभिरृत्विग्भिः पवि त्रे विनीयसे विशॆषेण नीयमानोभवसि । ततः मत्सरिन्तमः अतिशयेन मादयिता त्वं इन्द्रायेन्द्रार्थं चमूषु चमसेष्वानिषीदसि ॥ ८ ॥

अभीनवन्तइति नवर्चंचतुर्थंसूक्तं पूर्ववदृषिदेवते सर्वाअनुष्टुभः । तथाचानुकम्यते—अभी- नवन्तेनवेति । गतोविनियोगः ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६