मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् २

संहिता

पु॒ना॒न इ॑न्द॒वा भ॑र॒ सोम॑ द्वि॒बर्ह॑सं र॒यिम् ।
त्वं वसू॑नि पुष्यसि॒ विश्वा॑नि दा॒शुषो॑ गृ॒हे ॥

पदपाठः

पु॒ना॒नः । इ॒न्दो॒ इति॑ । आ । भ॒र॒ । सोम॑ । द्वि॒ऽबर्ह॑सम् । र॒यिम् ।
त्वम् । वसू॑नि । पु॒ष्य॒सि॒ । विश्वा॑नि । दा॒शुषः॑ । गृ॒हे ॥

सायणभाष्यम्

हे इन्दो दीप्यमान हे सोम पुनानः पूयमानस्त्वं द्विबर्हसं द्रयोःस्थानयोः परिबृंहण- शीलं रयिं धनं अस्मभ्यमाभराहर देहि त्वं हि दाशुषोहविर्दत्तवतोयजमानस्य गृहेस्थि- त्वा विश्वानि सर्वाणि वसूनि धनानि पुष्यसि पोषयसि ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७