त्वं धियं॑ मनो॒युजं॑ सृ॒जा वृ॒ष्टिं न त॑न्य॒तुः ।
त्वं वसू॑नि॒ पार्थि॑वा दि॒व्या च॑ सोम पुष्यसि ॥
त्वम् । धिय॑म् । म॒नः॒ऽयुज॑म् । सृ॒ज । वृ॒ष्टिम् । न । त॒न्य॒तुः ।
त्वम् । वसू॑नि । पार्थि॑वा । दि॒व्या । च॒ । सो॒म॒ । पु॒ष्य॒सि॒ ॥
हे सोम त्वं मनोयुजं मनसा युज्यमानां मनोवेगां धियं ध्यातव्यां धारां सृज पात्रेषु विसृज । तत्रदृष्टान्तः—वृष्टिंन तन्यतुः तनुविस्तारे ऋतन्यञ्जीत्यादिनायतुच् प्रत्ययः तनोति विस्तारयतीति तन्यतुर्मेघः यथा मेघोवृष्टिं सृजति तद्वत् । ततोहेसोम त्वं पार्थिवा पृथि- व्यांभवानि वसूनि धनानि तथा दिव्यानि दिविभवानि धनानिच पुष्यसि अस्मभ्यं पोष- यसि प्रयच्छसीत्यर्थः ॥ ३ ॥