मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ४

संहिता

परि॑ ते जि॒ग्युषो॑ यथा॒ धारा॑ सु॒तस्य॑ धावति ।
रंह॑माणा॒ व्य१॒॑व्ययं॒ वारं॑ वा॒जीव॑ सान॒सिः ॥

पदपाठः

परि॑ । ते॒ । जि॒ग्युषः॑ । य॒था॒ । धारा॑ । सु॒तस्य॑ । धा॒व॒ति॒ ।
रंह॑माणा । वि । अ॒व्यय॑म् । वार॑म् । वा॒जीऽइ॑व । सा॒न॒सिः ॥

सायणभाष्यम्

सुतस्य ते त्वदीया सानसिः संभजनशीला यद्वा स्तोतृभिः संभजनीया रंहमाणा वेगं- कुर्वाणा धारा अव्ययं अविमयं वारं वालं पवित्रं विपरिधावति विशेषेणपरितोगच्छति तत्रदृष्टान्तः—जिग्युषः शत्रूणांजेतुः वीरस्य वाजीव अश्वोयथा युद्धं परितोधावति तद्वत् । जयतेः क्वसौ सन् लिटोर्जेरिति कुत्वं यथेतिपूरकः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७