मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् १००, ऋक् ५

संहिता

क्रत्वे॒ दक्षा॑य नः कवे॒ पव॑स्व सोम॒ धार॑या ।
इन्द्रा॑य॒ पात॑वे सु॒तो मि॒त्राय॒ वरु॑णाय च ॥

पदपाठः

क्रत्वे॑ । दक्षा॑य । नः॒ । क॒वे॒ । पव॑स्व । सो॒म॒ । धार॑या ।
इन्द्रा॑य । पात॑वे । सु॒तः । मि॒त्राय॑ । वरु॑णाय । च॒ ॥

सायणभाष्यम्

हे कवे क्रान्तदर्शन हे सोम नोस्मभ्यं क्रत्वे प्रज्ञानाय दक्षाय बलाय च त्वं धारया पवस्व क्षर । कीदृशः इन्द्राय पातवे पानार्थं तथा मित्राय वरुणायच सुतोभिषुतः खलु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७